अथैषोऽपचितिः ।
प्रजापतिः प्रजा असृजत ।
ता एनं सृष्टा नापाचायन् ।
सोऽकामयत अपचितिमासु प्रजासु गच्छेयमिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै तं ता अपाचायन् ।
इन्द्र मु वै देवा नापाचायन् ।
स प्रजापतिमुपाधावन्न वै मेमे देवा अपचायन्तीति ।
तस्मा एतमपचितिं यज्ञं व्यदधात् ।
तमाहरत् ।
तेनायजत ।
ततो वै तं देवा अपाचायन् ।
दर्भमु ह वै शातानीकिं पञ्चाला राजानं सन्तं नापचायां चक्रुः ।
अपि ह स्मैनं कुमारा दर्भ दर्भेति ह्वयन्ति ।
तस्य हैतौ ब्राह्मणावासतुरहीना आश्वत्थिः केशी सात्यकामिरिति ।
तौ हैनमुपसमेयतुः ।
स ह ध्यायन्निषसाद ।
तं होचतुः ।
किं नु राजन्यो ध्यायतीति ।
स होवाच न हि मे ध्येयम् ।
पञ्चाला वै मेमे राजानं सन्तं नापचायन्त्यपि मा कुमारा दर्भ दर्भेति ह्वयन्ति ।
तदेवैतद्ध्यायामीति ।
तं होचतुरपचितिरिति वा अयं यज्ञक्रतुरस्ति तेन त्वा याजयावेति ।
तथेति ।
तेन हैनं याजयां चक्रतुः ।
स हैषु तथामात्रमपचितिं जगाम यदप्येतर्हि पञ्चाला दर्भान्कुशा इत्येवाचक्षते १००