०९७

अथैष ज्येष्ठयज्ञः ।

यो ज्यैष्ठ्यकाम स्यात्स एतेन यजेत ।

स वा एषोऽष्टावेकविंशानभिसम्पद्यते ।

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।

एष उ ह वा अग्रं ज्यैष्ठ्यम् ।

स योऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयादिति ।

तस्य सप्तदशाः पवमाना भवन्ति ।

प्रजापतिर्वै सप्तदशः ।

प्रजापतिर्वा अग्रं ज्यैष्ठ्यम् ।

सो योऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयादिति ।

तस्योत्तरावन्ति स्तोत्राणि भवन्ति ।

उत्तरावतीमेवैनं तच्छ्रियमुत्तरावन्तं स्वर्गं लोकं गमयन्ति ।

तस्य बृहत्पृष्ठं भवति ।

श्रीर्वै बृहज्ज्यैष्ठ्यम् ।

अदो वै बृहददो वै ज्यैष्ठ्यम् ।

तदेनं तच्छ्रियामेव मध्यतो ज्यैष्ठ्ये प्रतिष्ठापयन्ति ।

तस्य द्वादश स्तोत्राणि भवन्ति ।

द्वादश मासास्संवत्सरः ।

संवत्सरो वा अग्रं ज्यैष्ठ्यम् ।

सो योऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयादिति ।

तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।

चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरो वा अग्रं ज्यैष्ठ्यम् ।

सो योऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयादिति ।

स यो ज्येष्ठो ज्यैष्ठिनेयस्समग्रिय स्यात्स एतेन यजेत गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्यादवरोहति ९७