०९६

तस्य युवं हि स्थ स्वःपती इत्येषो प्रतिपत्कार्या ।

एषा वै द्वयोस्संयजमानयोः प्रतिपत् ।

तदु वा आहुः पवस्व वाचो अग्रिय उपास्मै गायता नर इत्येते एव प्रतिपदौ कार्ये ।

एते वाव द्वयोः संयजमानयोः प्रतिपदौ ।

अथो उभे ह्यत्र सामनी क्रियेते ।

तस्मादेते एव प्रतिपदौ कार्ये इति ।

तस्मिन्नेतानि सामान्यवकल्पयन्ति गौषूक्ताश्वसूक्ते हाविष्मत-हाविष्कृते ।

ये द्वे द्वे सामनी यानि द्वयोस्संयजमानयोस्सामानि तानि ।

तस्य विराट्स्वराजमार्भवस्य पवमानस्यानुष्टुभि कुर्वन्ति ।

विराट्स्वराजो ह्येष यज्ञः ।

स्तोममेव समर्धयन्ति ९६