तदाहुर्भूतस्यैवैष यज्ञो न बुभूषतोऽप्रजननी स्तोमो विराजं चानुष्टुभं चाभिसम्पद्यते ।
सम्पन्नमिव वा एतच्छन्दः पूर्णमिव प्रजननं यद्विराट् ।
अन्त उ वा एष छन्दसां यदनुष्टुबिति ।
तदु वा आहुरुभयोरेवैष यज्ञो भूतस्य च बुभूषतश्चेति ।
तस्यैते त्रिवृत्पञ्चदशा स्तोमा भवन्ति सप्तदशैकविंशा ऊनातिरिक्ता मिथुनाः प्रजनयः ।
ऊनमन्यस्यातिरिक्तमन्यस्य ।
ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।
त्रिवृच्च पञ्चदशश्च तन्मिथुनं प्रजननम् ।
सप्तदशश्चैकविंशश्च तन्मिथुनं प्रजननम् ।
तद्यन्मिथुनं प्रजननं तन्मा प्रजनयादिति ।
अथो यदुभे बृहद्र थन्तरे सामनी भवत एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
अनेन हत्वाप प्रजननतमो यद्विराजमभिसम्पद्यते ।
अन्नं वै विराट् ।
अशिताद्वै रेतस्सिच्यते ।
रेतसः प्रजाः प्रजायन्ते ।
अथो यदनुष्टुभमभिसम्पद्यत आनुष्टुभो वै प्रजापतिः प्रजापतिः प्रजननं स यः प्रजननं स मा प्रजनयादिति ९५