०९४

अथैष विराट्स्वराजौ ।

भ्रातरावेतेन यज्ञेन यजेयाताम् ।

यौ कामयेयातां राज्यं नावन्यतरो गच्छेत्स्वाराज्यमन्यतर इति स वा एष विराजं चानुष्टुभं चाभिसम्पद्यते ।

एतद्ध वै राज्यं यद्विराट् ।

अथैतत्स्वाराज्यं यदनुष्टुप् ।

विराजैव कनीयान्राज्यं गच्छति अनुष्टुभा ज्यायान्स्वाराज्यं लोकम् ।

तस्योभे बृहद्र थन्तरे सामनी भवतः ।

एतद्ध वै राज्यं यद्र थन्तरम् ।

अथैतत्स्वाराज्यं यद्बृहत् ।

रथन्तरेणैव कनीयान्राज्यं गच्छति ।

बृहता ज्यायान्स्वराज्यं लोकम् ।

तस्य त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति त्रीणि पञ्चदशानि त्रीणि सप्तदशानि त्रीण्येकविंशानि ।

त्रिवृद्भिरेव कनीयान्राज्यं गच्छति पञ्चदशैर्ज्यायान्स्वाराज्यं लोकम् ।

सप्तदशैरेव कनीयान्राज्यं गच्छत्येकविंशैर्ज्यायान्स्वाराज्यं लोकम् ९४