अथो आहुः प्रजाकाम एव प्रजापतिरेतं पृतनाजितं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजतेति ।
तस्य द्वे अष्टाशीतिशते स्तोत्रिया भवन्ति ।
तन्न्यूनम् ।
न्यूनात्प्रजननम् ।
द्वे हि ते स्त्रिया ऊने यतः सा प्रजायते ।
तत्तत्प्रजननं क्रियते ।
स चतुर्विंशो भवति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरः प्रजननं क्रियते ।
तस्य द्वादश स्तोत्राणि भवन्ति ।
द्वादश मासास्संवत्सरः ।
संवत्सरः प्रजननम् ।
तत्तत्प्रजननं क्रियते ।
तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरः प्रजननम् ।
तत्तदभिपूर्वं प्रजननं क्रियते ।
प्र प्रजया पशुभिर्जायते य एवं वेद ।
ताः प्रजन्याकामयतान्नवतीर्म इमाः प्रजा स्युरिति ।
स एतं सत्राजितं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
स पञ्चविंशो भवति ।
चतुर्विंशत्यर्धमासो वै संवत्सरः ।
अन्नाद्यं पञ्चविंशी ।
अन्नाद्यमेवाभ्यस्तत्पञ्चविंश्या प्रायच्छत् ।
तस्य त्रीणि शतानि स्तोत्र्या भवन्ति ।
सा विराट् ।
अन्नं विराडेतदेवाभ्यस्तदन्नाद्यं प्रायच्छत् ।
ता अस्यान्नवतीः प्रजा अभवन् ।
स यः कामयेत बहुभिः प्रजया पशुभिः प्रजायेयान्नावतीर्म इमाः प्रजा स्युरिति स एताभ्यां यजेत ।
बहुरेव प्रजया पशुभिः प्रजायतेऽन्नवतीरस्य प्रजा भवन्ति ९३