०९१

अथैतौ सत्राजित्पृतनाजितौ ।

देवासुरा वै संवत्सरे प्रजापतावस्पर्धन्तैषु च लोकेषु ।

ते देवा अकामयन्त जयेम पृतनामिति ।

त एतं पृतनाजितं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

ततो वै ते तां पृतनामजयन् ।

यत्पृतनामजयंस्तत्पृतनाजितः पृतनाजित्त्वम् ।

जयति पृतनां द्विषन्तं भ्रातृव्यं य एवं वेद ।

स चतुर्विंशो भवति ।

चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरादेवैनांस्तदजयन् ।

तस्य रथन्तरं पृष्ठं भवति ।

इदं वै रथन्तरम् ।

अस्मादेवैनांस्तल्लोकादजयन् ।

तस्य द्वादश स्तोत्राणि भवन्ति ।

द्वादश मासास्संवत्सरः ।

मासश एवैनांस्तत्संवत्सरादजयन् ।

तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।

चतुर्विंशत्यर्धमासस्संवत्सरः ।

अर्धमासश एवैनांस्तत्संवत्सरादजयन् ९१