०९०

ते देवा एतावुद्भिद्वलभिदावपश्यन् ।

ताभ्यां एना अभिप्रा धावयन् ।

ते वलभिदैव वलमभिन्दन् ।

उद्भिदा गा उदसृजन्त ।

स वा एष त्रिवृत्पञ्चदशो वलभिद्भवति रथन्तर्सामोत्सेधब्रह्मसामा ।

अथैष उद्भित्सप्तिसप्तदशो भवति बृहत्सामा निषेधब्रह्मसामा ।

तद्यथा ह वै मयूखो वा तीक्ष्णश्शङ्कुर्वैवमेष यत्त्रिवृत्स्तोमः ।

तद्यथा मयूखेन वा तीक्ष्णेनाभिनिधाय शङ्कुना वा कूटेनाभिहन्यादेवमेवैतेन त्रिवृता स्तोमेन वलमभिनिधाय पञ्चदशेन वज्रेण व्यासुः ।

अथो आहुरग्निरेवैष यत्त्रिवृत्स्तोमः ।

वज्र एष यत्पञ्चदशः ।

तद्यथाग्निनाश्मानमभ्योष्य तं कूटेन भिन्द्यादेवमेवैतेन त्रिवृताग्निना स्तोमेन वलमभ्योष्य पञ्चदशेन वज्रेण व्यासुरिति ।

ता हान्तर एव तस्थुरयनमविन्दमानाः ।

ता होत्सेधेनैवोत्सिषिधुः ।

अथैष उद्भित्सप्तिसप्तदशो भवति ।

ततो याः सप्त त एव सप्ततयाः पशवोऽथ यास्सप्तदश स एव सप्तदशः प्रजापतिः ।

ताः पितरमेव प्रजापतिं पश्यन्तीः प्रतिमोदमाना उदेयुः ।

ता होदेत्य महदेवाभि विससृजिरे ।

तासां ह देवाः परावापाद्बिभयां चक्रुः ।

ता होत्सेधेनैवोत्सिध्य निषेधेन निषिध्यात्मन्दधिरे ।

स यः पशुकाम स्यात्स एताभ्यां यजेत ।

वलभिदैव वलं भिनत्त्युद्भिदा गा उत्सृजते ।

उत्सेधेनैवैना उत्सिध्य निषेधेन निषिध्यात्मन्धत्ते अव पशून्रुन्द्धे बहुपशुर्भवति ९०