अथैतावुद्भिद्वलभिदौ ।
प्रजनन्कामो हैताभ्यां यजेत ।
त्रिवृत्पञ्चदशौ स्तोमौ भवतस्सप्तिसप्तदशाः ।
ऊनातिरिक्तौ मिथुनौ प्रजननी ।
ऊनमन्यस्यातिरिक्तमन्यस्य ।
ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।
तत्तत्प्रजननं क्रियते ।
तस्मादुभाभ्यां प्रजननकामो यजेत ।
अथो आहुर्ब्रह्मवर्चसकाम एवाभ्यां यजेतेति ।
षड्वा एतयोरन्यतरो गायत्रीरभिसम्पद्यते षडन्यतरः ।
ब्रह्म वै गायत्री ।
गायत्रीमेतौ यज्ञावभिसम्पन्नौ ।
तस्मादुभाभ्यां ब्रह्मवर्चसकामो यजेत ।
अथो आहुरायुष्काम एवाभ्यां यजेतेति ।
प्राणो वै गायत्री ।
गायत्रीमेतौ यज्ञावभिसम्पन्नौ ।
तस्मादुभाभ्यामायुष्कामो यजेत ।
अथो आहुस्तेजस्काम एवाभ्यां यजेतेति ।
तेजो वै गायत्री ।
गायत्रीमेव तौ यज्ञावभिसम्पन्नौ ।
तस्मादुभाभ्यां तेजस्कामो यजेत ।
अथो आहु स्वर्गकाम एवाभ्यां यजेतेति ।
या वै षड्गायत्र्यश्चतस्रस्ता बृहत्यः ।
बृहती वै स्वर्गं लोकमानशे ।
तस्मादुभाभ्यां स्वर्गकामो यजेत ।
अथो आहुः पशुकाम एवाभ्यां यजेतेति ।
या वै षड्गायत्र्यस्तिस्रस्ता जगत्यः ।
पशवो जगती ।
तस्मादुभाभ्यां पशुकामो यजेत ८९