अथैष व्योमा ।
देवा वा अकामयन्त व्योम स्याम व्योमानं लोकं गच्छेमेति ।
त एतं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
ततो वै ते व्योमासन्व्योमानं लोकमगच्छन् ।
व्योमा हैव भवति व्योमानं लोकं गच्छति य एवं वेद ।
स ह वै व्योमा यत्रान्यस्य लोकं नाभिध्यायति ।
तमेवैतेन जयति ।
सप्तदशो भवति ।
प्रजापतिर्वै सप्तदशः ।
प्रजापतिर्वै व्योमा ।
व्योम्ना व्योमानोऽसाम व्योम्ना व्योमानं लोकं गच्छामेति ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
न ह वा एतयोरन्यतरद्व्योम ।
उभे ह वा एते व्योम ।
व्योम्ना व्योमानोऽसाम व्योम्ना व्योमानं लोकं गच्छामेति ।
तस्यैकविंश आर्भवः पवमानो भवत्यग्निष्टोमसाम वा ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एष उ ह वै व्योमा येऽर्वाञ्चः प्रजापतेर्देवास्तेषां ।
व्योम्ना व्योमानोऽसाम व्योम्ना व्योमानं लोकं गच्छामेति ।
तस्यार्को देवानां परमे व्योमनर्कस्य देवाः परमे वियोमन्नित्येते आदिष्टसामनी पवमानयोर्भवतः ।
स्तोममेव तद्रू पेण समर्धयन्ति ८८