०८७

अथैष ऋषभः ।

इन्द्रो वा अकामयत ऋषभस्सर्वासां प्रजानां स्यामृषभतां गच्छेयमिति ।

स एतं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै स ऋषभस्सर्वासां प्रजानामभवदृषभतामगच्छत् ।

ऋषभ एव स्वानां प्रजानां भवत्यृषभतां गच्छति य एवं वेद ।

तच्छ्रीर्वा ऋषभः ।

श्रियं वै स तदगच्छत् ।

ऋषभो वै राजा मनुष्याणाम् ।

ऋषभ ऋषभः पशूनाम् ।

ऋषभोऽश्ववृषो वळवानाम् ।

ऋषभो बस्तोऽजानाम् ।

ऋषभो वृष्णिरवीनाम् ।

ऋषभः कृष्ण एणीनाम् ।

ऋषभ ऋष्यो रोहिताम् ।

एते ह वा आसाण्श्रियः ।

श्रियं ह गच्छति य एवं वेद ।

स पञ्चदशो भवति ।

वज्रो वै पञ्चदशः ।

वज्र इन्द्रः ।

षन्द्र एष यज्ञस्तत्तत्सलक्ष्म क्रियते ।

तस्यैकविंशो माध्यन्दिनो भवति ।

सा हास्य ककुप् ।

य उ ह वा एषां लोकानां श्रेष्ठास्ते ककुभः ।

अग्निर्वा अस्य लोकस्य ककुब्वायुरन्तरिक्षस्य आदित्यो दिवः ।

ककुभामेको भवति य एवं वेद ।

तस्य बृहत्पृष्ठं भवति ।

इन्द्रो वै बृहत् ।

श्रीः पृष्ठानि ।

इन्द्र मेव तच्छ्रिया समर्धयन्ति ।

तस्य ऋषभः पावमान ऋषभो वैदन्वत इत्येते आदिष्टसामनी पवमानयोर्भवतः ।

स्तोममेव तद्रू पेण समर्धयन्ति ८७