०८६

त उ वा अकामयन्त विराजमन्नाद्यमवरुध्य स्वराज्यं लोकं गच्छेमेति ।

त एतं स्वराजं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

ततो वै ते विराजमन्नाद्यमवरुध्य स्वराज्यं लोकमगच्छन् ।

विराजमेवान्नाद्यमवरुध्य स्वाराज्यं लोकं गच्छति य एवं वेद ।

स ह वै स्वराड्यत्रान्यस्य लोकं नाभिध्यायति ।

तमेवैतेन जयति ।

तस्य दश त्रिवृन्ति स्तोत्राणि भवन्ति ।

तास्तिस्रो विराजः ।

पञ्चदशं च सप्तदशं च द्वे ।

सोऽनुष्टुप् ।

एषो ह वै छन्दसां स्वाराज्यं लोकमानशे यदनुष्टुप् ।

प्रजापतिर्वा अनुष्टुप् ।

प्रजापतिर्वै स्वाराज्यम् ।

अन्नमु वै विराट् ।

विराज्येव तदन्नाद्ये प्रतिष्ठाय स्वाराज्यं लोकमगच्छन् ।

विराज्येव तदन्नाद्ये प्रतिष्ठाय स्वाराज्यं लोकं गच्छति य एवं वेद ।

तस्य बृहत्पृष्ठं भवति ।

अदो वै बृहत् ।

अदो वै स्वाराज्यम् ।

अमुमेवैतेन स्वाराज्यं लोकमगच्छन् ।

अमुमेवैतेन स्वाराज्यं लोकं गच्छति य एवं वेद ।

तस्येन्दुस्समुद्र मुर्विया विभातीत्येतदादिष्टसामार्भवे पवमाने न भवतीति दिवस्सामैकारवद्भवति ।

अर्वाङिव ह्यसौ लोकः ।

स्तोममेव तद्रू पेण समर्धयन्ति ।

अथो यदेकारवद्भवति स्वर्गाल्लोकान्नेत्पराञ्चोऽतिपद्यामहा इति ८६