अथैतौ विराट्स्वराजौ ।
देवा वा अकामयन्त विराजमन्नाद्यमवरुन्धीमहि विराज्यन्नाद्ये प्रतितिष्ठेमेति ।
त एतं विराजं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
ततो वै ते विराजमन्नाद्यमवारुन्धत विराज्यन्नाद्ये प्रत्यतिष्ठन् ।
विराजमेवान्नाद्यमवरुन्द्धे विराज्यन्नाद्ये प्रतितिष्ठति य एवं वेद ।
स ह वै विराड्यत्रान्यस्य लोकं नाभिध्यायति ।
तमेवैतेन जयति ।
तस्य दश त्रिवृन्ति स्तोत्राणि भवन्ति तास्तिस्रो विराजः पञ्चदशे द्वे ।
सो विराट् ।
ताश्चतस्रो विराजस्सम्पद्यन्ते ।
अन्नं विराट् ।
विराज एवान्नाद्यस्यावरुद्ध्यै ।
तस्य रथन्तरं पृष्ठं भवति ।
इयं वै रथन्तरम् ।
इयमु वै विराट् ।
य उ वा अस्यै भूयिष्ठं परिगृह्णाति स विराजति ।
अन्नं विराट् ।
विराज एवान्नाद्यस्यावरुद्ध्यै ।
तस्येन्दुस्समुद्र मुर्विया विभातीत्येतदादिष्टसाम माध्यन्दिने पवमाने भवति पृथिव्यै साम ।
स्तोममेव तद्रू पेण समर्धयन्ति ८५