०८४

तस्य बृहत्पृष्ठं भवति ।

इदं वै रथन्तरमदो बृहत् ।

आसन्नमिव वा इदं प्ररिक्तमिवादः प्ररिक्त्या एव ।

तस्य प्र यो रिरिक्षे ओजसेत्येतासु गारं ब्रह्मसाम भवति गरस्यैवापहत्यै ।

तदु वा आहुर्या इद्वै ताः कामदुघा आसन्नेतेन वाव ता यज्ञेन परिगृह्याहरतामिति ।

तस्य त्रिवृत्प्रातस्सवनं भवति त्रिवृत्तृतीयसवनं द्वादशं माध्यन्दिनं सवनम् ।

द्वादशाक्षरा वै जगती ।

पशवो जगती पशवः कामदुघाः ।

ब्रह्म वै त्रिवृत् ।

ब्रह्मणा वै एनास्तदुभयतः परिगृह्याजह्रतुः ।

तासामेका श्रवणा दुहे ।

तां भूमावुपोपतुः ।

तामेतां वक्रेण दारुणान्विच्छन्ति लाङ्गलेन विश एका तां वणिज्यया ब्रह्मैका तां ब्रह्मचर्येण क्षत्रमेका तां राजानुचर्येण ।

अथ यास्तिस्रः परिशिष्टा आसुस्तानि हैवोक्थानि चक्रतुः ।

स एष उक्थ्यो यज्ञः ।

शश्वद्धैष एव प्रथम उक्थ्यानामथ ततोऽग्निष्टोमा एव पराञ्चः ।

स यः पशुकाम स्यात्स एतेन यजेत ।

तस्मिन्नु ह तर्ह्युभे बृहद्र थन्तरे कुर्युः ।

द्वया उ ह वै पशवः ।

राथन्तरा अन्ये बार्हता अन्ये ।

ये ह वा अन्यतोदन्ताः पशवस्ते राथतरा य उभयतोदन्तास्ते बार्हताः ।

उभयेषामेव पशूनामवरुद्ध्यै ।

स उक्थ्यो भवति पशवो वा उक्थानि पशूनामेवावरुद्ध्यै ।

तस्योद्वंशीयमच्छावाकसाम भवति सर्वपृष्ठरूपं पृष्ठानि वै पशवोऽभिपूर्वाणामेव पशूनामवरुद्ध्यै ८४