अथैष पुनस्तोमः ।
स हायमृषिरागत्य न शशाकोत्थातुमसुराशनेन ।
गरो हैनमाविवेश यद्वा मित्राय दुद्रो ह यद्वा विद्विषाणानामशनमाश ।
स हेन्द्र मुवाच न वै शक्नोम्युत्थातुमिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनैनमयाजयत् ।
तस्य त्रिवृत्प्रातस्सवनं भवति त्रिवृत्तृतीयसवनम् ।
न्यूनं वै त्रिवृन्न्यूनान्निक्षरति ।
तमेताभ्यां त्रिवृद्भ्यां सवनाभ्यां यथा दृतिमुभयत आदृत्य निक्षालयेदेवं हैवास्य सर्वं पाप्मानं निक्षालयां चकार ।
इतश्च ह वै स तदूर्ध्वं इतश्चावाञ्चं पाप्मानं अपजघ्ने ।
इतश्च हैवोर्ध्वमितश्चावाञ्चं पाप्मानमपहते य एवं वेद ।
स इहातिप्ररिक्तो न शशाकोत्थातुम् ।
स हेक्षां चक्रे कथं न्वहमिमं पुनस्संश्रीणीयामिति ।
तमेतेनैव पुनरयाजयत् ।
तेनैनं पुनस्समश्रीणात् ।
सास्य पुनस्तोमता ।
तस्य द्वादशं माध्यन्दिनं सवनं भवति ।
द्वादश मासास्संवत्सरः ।
संवत्सरेणैवास्य तद्रि क्तमात्मानं मध्यतः पुनस्समश्रीणात् ।
स यथा जात्वप्रतिजगृहिवान्स्यादेवमास ।
यथा द्विदतः कुमारस्य सातं स्यादेवं हैवास्य सातमास ।
स यो गरगीर्मन्येताप्रतिगृह्यस्य प्रतिगृह्यानाश्यान्नस्यान्नमशित्वा स एतन यजेत ।
एताभ्यामेव त्रिवृद्भ्यां सवनाभ्यामितश्चोर्ध्वमितश्चावाञ्चं विष्वञ्चं गरं व्यस्यते ८३