तस्य वसिष्ठस्य जनित्रे आदिष्टसामनी पवमानयोर्भवतः ।
एतद्वै दैव्यं मिथुनं प्रजननं यद्वसिष्ठस्य जनित्रे ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्य सविंशमग्निष्टोमसाम भवति ।
सा विराट् ।
अन्नम्विराट् ।
विराज्येव तदन्नाद्ये यज्ञस्यान्ततः प्रतितिष्ठति ।
तदाहुरप्रजननी स्तोमो विराजमभि सम्पन्नो नैनेन यजेतेति ।
तदु वा आहुः प्रजनन एव ।
अन्नं वै विराट् ।
अशिताद्वै रेतस्सिच्यते ।
रेतसः प्रजाः प्रजायन्ते ।
तस्मात्प्रजनन एवेति ।
अथो आहुरष्टादशमेवाच्छावाकस्य कृत्वा सविंशमार्भवमेकविंशमग्निष्टोमसाम कुर्यादिति ।
तदु प्रज्ञात एकविंशे स्तोमेऽन्तत स्तोत्राणां प्रतितिष्ठति ।
अथैष शदः ।
आदित्यो वा अकामयत अवशात्यैव सर्वं पाप्मानं स्वर्गं लोकमभ्युत्क्रामेयमिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै सोऽवशात्यैव सर्वं पाप्मानं स्वर्गं लोकमभ्युदक्रामत् ।
स एषोऽपहतपाप्मा तपति ।
अवशात्य हैव सर्वं पाप्मानं स्वर्गं लोकमभ्युत्क्रामति य एवं वेद ।
यद्वेवैषैकैका स्तोत्र्यावशीयते तस्माच्छदः ८२