एकाहाः
अथैष उपशदः ।
कश्यपो वा अकामयत उपोप मा प्रजाः पशवः शीयेरन्नुपोप प्रजया पशुभिः प्रजायेयेति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै तमुपोप प्रजाः पशवोऽशीयन्त उपोप प्रजया पशुभिः प्राजायत ।
उपोप ह वा एनं प्रजाः पशवः शीयन्त उपोप प्रजया पशुभिः प्रजायते य एवं वेद ।
तस्य त्रिवृद्बहिष्पवमानं भवति ।
न्यूनं वै त्रिवृत् ।
न्यूनं प्रजननम् ।
तद्यत्प्रजननं तन्मा प्रजनयादिति ।
तस्यैकोत्तरा स्तोमा भवन्ति ।
अनन्तर्हितात्प्रजननात्प्रजाया इति ।
यद्वेवैषैकैका स्तोत्र्योपशीयते तस्मादुपशदः ।
तस्योभये स्तोमा भवन्त्ययुजश्च युग्मन्तश्च ।
एतद्वै दैव्यं मिथुनं प्रजननं यदुभये स्तोमाः ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ८१