\तदु ह वा आरुणिनैव यशस्विनोपज्ञातम् ।
तस्मादु तस्याशां नेयात् ।
तस्मात्कौशिक ब्राह्मण कौशिक ब्रुवाणेत्येवाह्वयेत् ।
देवा ब्रह्माण आगच्छतागच्छतेति देवांश्चैव तद्ब्राह्मणांश्च समामन्त्रयन्ते ।
ते हास्मै समामन्त्रितास्सुमतिमिच्छन्ते ।
तस्मादु ह समामन्त्र्य मापराध्नुयान्नेन्मोपवदादिति ।
तदाहुः किञ्छन्दस्सुब्रह्मण्येति ।
त्रिष्टुबिति ब्रूयात् ।
षन्द्री हि त्रिष्टुबिति ।
तदाहुः किन्देवत्या सुब्रह्मण्येति ।
षन्द्री ति ब्रूयात् ।
इन्द्रं ह्येनयाह्वयतीति ।
अथो ह ब्रूयाद्वैश्वदेवीति ।
विश्वान्ह्येनया देवानाह्वयतीति ।
तदाहुर्यदन्या होत्रा स्तोत्रवत्यश्शस्त्रवत्योऽथ क्व सुब्रह्मण्यायै स्तोत्रं क्व शस्त्रमिति ।
स ब्रूयादेतस्यामेवैतत्सर्वं यदृक्साम यजुः ।
तेनास्य सुब्रह्मण्या स्तोत्रवती शस्त्रवती भवतीति ।
तदाहुः किमिव स्वित्सुब्रह्मण्यर्गिव स्वी३त्सामेवा३उताहो यजुरिवा३इति ।
स ब्रूयान्नैवैषर्ङ्न यजुर्न साम ।
सर्वमिवैव ।
सर्वमिव ह्येव ब्रह्मेति ।
अथ यां क्रीते राजनि सुब्रह्मण्यामाह्वयति यामेतां दक्षिणासु नीयमानासूत्करे तिष्ठन्सुब्रह्मण्यामाह्वयति सैवेयम् ।
अथो यत्प्रायणं तदुदयनमसदिति ।
अथो आगत एवेन्द्र स्तं मा निर्वोचामेति ।
एषा ह वै धेनुः पञ्चवत्सा पञ्चपदा ।
यद्ध वा इदमाहुः पाङ्क्ताः पशव इत्येतद्ध तत् ।
तां ह वा एके यथादेवतमाह्वयन्ति ।
सर्वाग्नेयीमग्निष्टुत षन्द्री मिन्द्र स्तोमस्य वैश्वदेवीं वैश्वदेवस्य अनिरुक्तामनिरुक्तस्य ।
तदु ह शश्वन्न तथा ।
नो हि ब्रह्मणो व्यापादोऽस्ति ।
यथानिपतितमेवाह्वयेद्यथानिपतितमेवाह्वयेत् ।
८