प्राणो ह्यग्रेऽथ वागिति ।
तद्ध तन्न तथा ।
यथा मध्वासिच्य लाजानावपेत्तदन्यधेव स्यात्तादृक्तत् ।
तस्मात्सुब्रह्मण्यो३मित्येवाह्वयेत् ।
इन्द्रा गच्छेति ।
इन्द्र मेव तद्यज्ञ आह्वयति ।
हरिव आगच्छेति ।
हरिभ्यामायाहीति वावैनं तदाह ।
प्रानापानौ वास्य हरी ।
तौ हीदं सर्वं हर्तारौ हरतः ।
अथो अहोरात्रौ वास्य हरी ।
तौ हीदं सर्वं हर्तारौ हरतः ।
मेधातिथेर्मेषेति ।
मेह्दातिथेर्ह मेषो भूत्वा राजानं पपौ ।
वृषणश्वस्य मेन इति ।
वृषणश्वस्य ह मेना भूत्वा मघवा कुल उवास ।
गौरावस्कन्दिन्निति ।
ततो हैव गौरो भूत्वार्णवमवचस्कन्द ।
अहल्यायै जारेति ।
अहल्यायै ह मैत्रेय्यै जार आस ।
कौशिक ब्राह्मण कौशिक ब्रुवाणेति ।
यद्ध वा आसुरैर्महासङ्ग्रामं संयेते तद्ध वेदान्निराचकार ।
तान्ह विश्वामित्रादधिजगे ।
ततो हैव कौशिक ऊचे अथ ह वा एके कौशिक ब्राह्मण गौतम ब्रुवाणेत्याह्वयन्ति ७९