०७८

ब्रह्म च ह वै सुब्रह्म चैषु लोकेष्वासतुरस्मिन्भुवने ।

ततस्सुब्रह्मोच्चक्राम ।

असौ वा आदित्यो ब्राह्माथो वागेव सुब्रह्म ।

ते देवा इहैव वेद्या अन्तर्वेदि यज्ञेन ब्रह्म पर्यगृह्णन् ।

तदिदमप्येतर्हि वेद्या अन्तर्वेदि यज्ञेन ब्रह्म परिगृहीतम् ।

तदाहुर्यदन्या होत्रा अन्तर्वेदि कुर्वन्त्यथ कथं सुब्रह्मण्यो बहिर्वेदि करोतीति ।

स ब्रूयादेष वेद्या आत्मा यदुत्कर एतत्प्रत्यक्षं ब्रह्म यत्सुब्रह्मण्या ।

यदुत्करमास्याथ सुब्रह्मण्यामाह्वयति तेनास्यान्तर्वेदि कृतं भवतीति ।

सुब्रह्मण्यो३ं सुब्रह्मण्यो३ं सुब्रह्मण्यो३मिति त्रिराह ।

वाग्वै सुब्रह्मण्या ।

तदेतां वाचं प्रथमत आरभते ।

अथो ब्रह्म वाग्रस ॐकारः ।

तामेतां वाचं रसेन प्रीणाति तद्धैतदेक ॐ सुब्रह्मण्येत्याह्वयन्ति ७८