जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।
ते तदु ह कुरुपञ्चालानां ब्राह्मणा अभिसमाजग्मुः ।
स ह सहस्रं गवामवरुन्धान उवाच ब्राह्मणा एता वो यो ब्रह्मिष्ठस्स उदजतामिति ।
स होवाच वाजसनेयोऽर्वाचीरेतास्सोम्येति ।
तं होचुस्त्वं नु नो ब्रह्मिष्ठोऽसी३इति ।
स होवाच नमो वो ब्रह्मिष्ठायास्तु ।
गोकामा एव वयं स्म इति ।
ते होचुः को न इमं प्रक्ष्यतीति ।
स होवाच विदग्धश्शाकल्योऽहमिति ।
तं ह पुरस्कृत्येयुः ।
तं ह प्रतिख्यायायन्तमुवाच त्वां स्विच्छाकल्य ब्राह्मणा उल्मुकावक्षयणमक्रता३इति ।
स होवाच यदि तेनोल्मुकावक्षयणं स्मः प्रक्ष्यामो न्वै त्वामिति ।
तं ह पप्रच्छ कति देवा याज्ञवल्क्येति ।
स होवाच त्रयश्च त्रिंशच्च त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा यावन्तो निविदाभ्याहूता इति ।
ओमिति होवाच ७६