०७५

एकैकमु ह वा एतेषामक्षराणां यावतीयं पृथिवी तावत् ।

ऊर्जोऽन्नाद्यस्य मधुनोऽमृतस्य कामस्य-कामस्य पिब्दमानं तिष्ठति ।

तद्धैवंविद्वान्ब्राह्मणस्सहस्रं-सहस्रं देवयुगान्युपजीवति ।

तद्यदाप्यतेऽथेतरदुपसङ्क्रामत्यथेतरत्पुनराख्यायते ।

तस्मादु हैवंविदे ब्राह्मणाय दित्सन्त्यस्योर्जोऽन्नाद्यस्य मधुनोऽमृतस्य कामस्य-कामस्य लिप्सामहा इति ।

यथा ह वा इदं क्षेत्रपादं वा क्षेत्ररज्जुं वावक्रीयासत एवमेवैवंविदो ब्राह्मणाल्लोकमवक्रीणते ।

स यथा क्रये पर्यवेते क्षेत्रिणमेव क्षेत्राण्यपियन्त्येवं लोकिनमेव लोका अपियन्ति ।

स यद्ध वा अप्येवंविद्वान्ब्राह्मणः पूर्णां पृथिवीं प्रतिगृह्णीयादेकमेव तस्याक्षरं ज्यायः ।

तस्मादु हैवंविद्वान्ब्राह्मणो दद्याच्चैव प्रतिगृह्णीयात् ७५