सुवरायन्देवता देवसत्त्रात्
तपसा कर्म कवयोऽनुगत्य
आह्नाय मृत्युमति मेधयायन्
विजानन्तो दहन्तो यन्ति शोकम्
मनीषिणो यदपक्षाः पतन्ति
यत्रामृतं विद्यते नोत मृत्युस्
तत्र विद्वांसः कवयः क्षियन्ति
इति ।
एवंविद्वांसो यजमानमृत्विजो लोकान्पशूनभि कामान्वहन्ति ।
स यज्ञेषु स्तुतशस्त्रमश्नुतेऽक्षय्या यस्य भवन्त्यृत्विजोऽध्वर्युर्होतोत सामगः ।
तस्मै छन्दांसि मधुधाराः क्षरन्ति ।
स यज्ञेषु स्तुतशस्त्रमश्नुतेऽक्षय्या यस्य भवन्त्यृत्विजोऽध्वर्युर्होतोत सामगः ।
तस्मै छन्दांस्यमृतकुल्या अभिवहन्ति ऊर्मिणी स्तोत्रशस्त्रैरिति ७४