०७३

अथास्याक्षराणामयुतमेकं प्रयुतानि षष्टिर्नियुते द्वे नव चाक्षराणि सप्त सहस्राणि दशतो दश ।

तदेतच्छ्लोकेनाभिगीतम्

अयुतमेकं प्रयुतानि षष्टिर्नियुते द्वे नव चाक्षराणि

सप्त सहस्राणि दशतो दशैतावानात्मा परमः प्रजापतेः

इति ।

तदेतदनन्तं यत्सङ्ख्यानम् ।

तदेतदमृतं यत्सङ्ख्यानम् ।

स एष सुकृतस्सो यत्सङ्ख्यानम् ।

अथ यदसङ्ख्यानं मर्त्यं तत् ।

तस्मादु समेव चक्षीत ।

सा हैषा देवानां सेना यत्सङ्ख्यानम् ।

मनुष्यसेनया वाव नु तं स्तृणुते यं तिस्तीर्षते ।

तादृगिह तं स्तृणवातै यं देवसेनया तिस्तीर्षाता इति ।

अथैते त्रयः पन्थानस्सुकृता देवयाना अक्षर्यः पद्य ऋक्म्यश्च ।

ते विद्वांसोऽभिवहन्ति ब्राह्मणं यत्र मृत्युर्भवत्यन्नमस्य ।

तदेतच्छ्लोकेनाभिगीतम्

त्रयः पन्थानस्सुकृता देवयाना अक्षर्यः पद्य ऋक्म्यश्च

ते विद्वांसोऽभिवहन्ति ब्राह्मणं यत्र मृत्युर्भवत्यन्नमस्य

अक्षरशः पच्छोऽमृतं लिहानाः ७