०७२

तावन्ति तारकनक्षत्रानि तावन्ति ज्योतींषि तावन्तोऽर्काः ।

आप्नोति ह वा एतानि तारकनक्षत्राण्याप्नोति ज्योतींष्याप्नोत्यर्कान्य एवं वेद ।

अथास्य स्तोत्र्याणां नवतिश्च सहस्राणि त्रीणि च शतानि षण्णवतिश्च ।

तदेतच्छ्लोकेनाभिगीतम्

स्तोत्र्या अस्य नवतिस्सहस्रा त्री च शता नवतिश्चोप षट्च

ताभिस्संस्तुतो विवसान एति भूतं भविष्यद्भुवनं प्रजापतिः

इति ।

अथास्य पदानां चत्वारि च सहस्रा त्रिंशं चायुतानि सप्त शतानि पञ्चाशतं पदानि ।

तदेतच्छ्लोकेनाभिगीतम्

चत्वारि सहस्रा त्रिंशं चायुतानि सप्त शतानि पञ्चाशतं पदानि

संवत्सरस्य कविभि स्तुतस्यैतावती मध्यमा देवमात्रा

इति ७२