\अथ यो यूप आसीद्य एवैष वीणायै दण्डस्स एव सः ।
अथ या रशना आसन्यान्येवैतानि वीणाया उपवाणानि ता एव ताः ।
अथ यो द्रो णकलश आसीद्यैवैषा वीणायै सूना स एव सः ।
अथ यदधिषवणं चर्मासीद्यदेवैतद्वीणायै चर्म तदेव तत् ।
अथ य उपरवा आसन्य एवैते वीणाया आकाशास्त एव ते ।
अथ ये ग्रावाण आसन्यान्येवैतानि वीणायै वादनानि त एव ते ।
अथ यानि सप्त चतुरुत्तराणि छन्दांस्यासन्या एवैतास्सप्त वीणायै तन्त्र्यस्तान्येव तानि ।
अथ ये दशरात्रे स्तोमा आसन्या एवैता दशाङ्गुलयस्त एव ते ।
तदाहुर्नैतर्हि संसवोऽस्ति ।
यो हि द्वितीयो यज्ञ आसीदशुच्यत्सः ।
एक एव यज्ञः ।
प्रजापतिर्यज्ञ एवेति ७०