मृत्युप्रजापती यदयजेतां तौ यज्ञाभ्यामेवास्पर्धेताम् ।
अथ ह तर्हि यज्ञायुधान्यासुर्यथेमान्येतर्हीष्टीष्वायुधानि ।
तद्यद्यज्ञे स्तूयते यच्छस्यते यत्प्रचर्यते सा प्रजापतेस्सेनास ।
अथ यद्वीणायां गीयते यन्नृत्यते यद्वृथाचर्यते सा मृत्योस्सेनास ।
तयोर्ह समावत्यावेव सेने आसतुर्यावत्येवेतरस्य तावतीतरस्य ।
तौ ह ज्योगेवाविजयमानौ चेरतुर्बहून्येव वर्षाणि ।
स प्रजापतिरकामयत जयेयं मृत्युमिति ।
स एतां यज्ञे सम्पदमपश्यदेतत्सङ्ख्यानम् ।
तेन मृत्युमजयत् ।
तस्य पराजितस्य राजाशुच्यत् ।
स प्रत्यङ्पतित्वा पत्नीशालां प्रापद्यत ।
तस्मात्पत्नीभ्य हय च यस्सम्पदासुत इत्यसुत इति हैतन्न हि सोऽसूयत तस्य यानि स्तुतशस्त्राण्यासन्यदेवैतद्वीणायां गीयते यन्नृत्यते यद्वृथाचर्यते तान्येव तानि ६९