०६७

ते ये सकृष्णाजिना अपोऽभ्यवयन्ति य एतस्माद्दीक्षितयशसादवच्छिद्यन्ते ते सर्वमात्मानं प्रप्लाव्य पाप्मना सहोदायन्ति ।

स यदावभृथेष्टिस्सन्तिष्ठेताथोन्मुच्य कृष्णाजिनमद्भिरभ्युक्षेदिन्द्रि याज्ज्यैष्ठ्याच्छ्रैष्ठ्यान्मा योषमिति अथ यं रातिं मन्यते तस्मै प्रयच्छति ।

अथाप आचामति भक्षस्यावभृथोऽसि भक्षणस्यावभृथोऽसि भक्षितस्यावभृथोऽसीति ।

स यदेवात्रर्जीषे किं चित्सक्तं भवति तस्यैष भक्षः ।

अथापः प्रविशति ।

न्यञ्चनं वा एतत्प्रपदनं यदापः ।

न्यञ्चनमेवैतत्प्रपदनं प्रपद्यते पाप्मनोऽनन्ववायाय ।

यद्याप स्यन्देरन्प्रतिस्रोतं गाहेत पाप्मानं मे निर्वहानिति ।

सर्वा उ ह त्वा आप स्यन्दन्ते ।

या उ ह स्थावरा अवाचीस्ता स्यन्दन्तेऽवाञ्चमेवास्य ताः पाप्मानं निर्वहन्ति ।

अन्योऽन्यस्य जायापती पृष्ठं प्रधावतः ।

वज्रो वा आपः ।

वज्रेणैव तत्सर्वं पाप्मानमपहनाते ।

अथो द्वन्द्वमेव तन्मिथुनं प्रजननं कुर्वाते प्रजात्यै ।

स्नात्वा क्षिप्र उदेयात्क्षिप्रे पाप्मनो व्यावृत्त्या इति ६७