०६६

\तं सकाममभ्यश्नुवीत ।

अथ हैवंविद्दीक्षमान एव सर्वान्कामानुपाप्नोति ।

तस्माद्दीक्षासु न राजानं परिवेविष्यात् ।

यद्व्रतो ह्येवैष भवति तद्व्रता इमे लोकास्तद्व्रतानि छन्दांसि तद्व्रतस्सोमो राजा ।

अथाह भूर्भुव स्वस्सुपोषः पोषैस्सुवीरो वीरैस्सुप्रजः प्रजयासमिति ।

तदेतामपरिमितामाशिषमन्त आशास्ते तपो मे प्रतिष्ठेति ।

तत्तपः प्रतिष्ठां कुरुते ।

श्रद्धा मेऽक्षितिरिति तच्छ्रद्धामक्षितिं कुरुते ।

सत्यं मे गृहपतिरित्येष वै सत्यम् ।

सत्यं य एष तपति ।

सैषानार्ता देवता ।

तदेतामनार्तां देवतां गृहपतिं कुरुते ।

स वा एष सुव्रतः ।

यद्ध्येषा खला स्यात्सर्वमिदं प्रदहेत् ।

तस्माद्गृहपतिस्सुव्रत स्यात् ।

स यद्वदीक्षितव्रतं चरेदपापवद्यं वा पापं वदेन्मिथुनं वा चरेदन्यद्वा मिथ्याकुर्यादेतमेवादित्यमेतैस्सर्वैर्जपैरुपतिष्ठेत ।

ततो हैव दीक्षितः ।

स वा एष एतर्ह्यदीक्षितः ।

यद्वेवास्मिन्दीक्षिते यश आसीत्तद्वेवास्मिन्नप्येतर्हि यशः ।

तदाहुस्स वाद्य दीक्षेत स वान्यं दीक्षयेद्य एतस्य दीक्षितयशसस्य व्यवच्छित्तिं विद्यादिति ।

कृष्णाजिनं वाव दीक्षितयशसम् ।

एतद्धि सर्वेषां वेदानां रूपम् ।

यानि शुक्लानि तानि साम्नां रूपं यानि कृष्णानि तान्यृचाम् ।

यदि वेतरथा ।

यान्येव बभ्रूणीव हरीणि तानि यजुषाम् ।

तस्माद्यद्यप्येनददृष्टो वस्ते दिदृक्षन्त एवैनम् ।

एतद्ध्यस्मिन्दीक्षितयशसं भवति ६६