तमध्वर्युरभ्यज्य प्रपाद्यौद्ग्रहणानि जुहोति ।
यदौद्ग्रहणानि जुहोति यदस्मा औदुम्बरदण्डं प्रयच्छत्यथैतमाहवनीयमुपतिष्ठेत वाचा मे वाग्दीक्षितामग्नये समष्टवा उ प्राणेन मे प्राणो दीक्षितां वायवे समष्टवा उ चक्षुषा मे चक्षुर्दीक्षितां सूर्याय समष्टवा उ मनसा मे मनो दीक्षितां प्रजापतये समष्टवा विति ।
तदेताभिरनार्ताभिर्देवताभिरिमा स्वा देवता दीक्षयति ।
अथाह अग्निर्दीक्षितः पृथिवी दीक्षा सा मा दीक्षा दीक्षेत तया दीक्षया दीक्षे ।
वायुर्दीक्षितोऽन्तरिक्षं दीक्षा सा मा दीक्षा दीक्षेत तया दीक्षया दीक्षे ।
आदित्यो दीक्षितो द्यौर्दीक्षा सा मा दीक्षा दीक्षेत तया दीक्षया दीक्षे ।
प्रजापतिर्दीक्षितो मनो दीक्षा सा मा दीक्षा दीक्षेत तया दीक्षया दीक्षे ।
वाचं म ऋचोऽनु दीक्षन्तां मनो यजूंषि प्राणं सामानि ।
श्रद्धां मे सोमो राजानु दीक्षताम् ।
ऋचा दीक्षे यजुषा दीक्षे साम्ना दीक्षे पृथिव्या दीक्षेऽन्तरिकेण दीक्षे दिवा दीक्ष इत्यत्र कृत्स्नो दीक्षितः अथ यस्यादीक्षिता इमे लोका अदीक्षितानि छन्दांस्यदीक्षितस्सोमो राजा ६५