०६४

विचक्षणवतीं वाचं वदति ।

अन्नं वै विचक्षणम् ।

अन्नवतीमेव तद्वाचं वदति ।

विचक्षणवतीं वाचं वदति ।

सोमो वै विचक्षणः ।

अन्नमु सोमः ।

अन्नवतीमेव तद्वाचं वदति ।

विचक्षणवतीं वाचं वदति ।

प्राणो वै विचक्षणः ।

तस्य वागेव मिथुनम् ।

मिथुनवतीमेव तद्वाचं वदति ।

विचक्षणवतीं वाचं वदति ।

अन्नं वै विचक्षणम् ।

अन्नेन हीमाः प्रजा विपश्यन्ति ।

तत आभ्यः प्रजाभ्योऽन्नाद्यं प्रयच्छति ।

स यदास्मै व्रतं प्रयच्छेत्सर्वमेव व्रतयेत्सर्वस्यान्नाद्यस्यावरुद्ध्यै ।

यद्यु परिशिंष्याद्व्रतप्रदं ब्रूयादशान वा पिब वेति ।

यद्य उ व्रतप्रदोऽनुच्छिष्टाशी वा स्यात्परि वा शिंष्यात्तदद्भिरभ्युक्ष्य छायायां निषेक्तवै ब्रूयात् ।

तदोषधीभिरभिसञ्छादयितवै ब्रूयात् ।

तदोषधीनां मूलान्युपसिञ्चति ।

वर्षुकः पर्जन्यो भवति यत्रैवंविद्वान्दीक्षिते ।

दीक्षिता ऊदशूशुषन्नितीहाहुः ।

स यदा दीक्षणीयेष्टिस्सन्तिष्ठेत यदैनमध्वर्युरभ्यञ्जयेद्यदा सम्पवयेदथैतमादित्यमुपतिष्ठेत त्वं देवता दीक्षितासि ।

सा दीक्षमाणस्येन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यं यश आदत्से ।

मा म इन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यं यश आदिथाः ।

तव दीक्षामनु दीक्ष इति ।

तस्यैषा देवता दीक्षमानस्येन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यं यशो नादत्ते ६४