प्रथमां सन्नह्यति प्रथमां वाचयति प्रथमां पूर्णपात्र आगच्छत्यनन्तरिताः पत्नय स्थ ।
उदगु यज्ञीयं कर्म सन्तिष्ठते ।
इति न्वधिदेवतम् ।
अथाध्यात्मम् ।
अयमेव दीक्षितो योऽयं चक्षुषि पुरुषः ।
तस्य यान्यर्वाञ्चि पक्ष्माणितानि श्मश्रूणि यान्यूर्ध्वानि ते केशाः ।
यदेव शुक्लं च कृष्णं च तत्कृष्णाजिनस्य रूपम् ।
शुक्लमेव शुक्लस्य रूपं कृष्णं कृष्णस्य ।
अथ यदेतन्मण्डलं ता आपस्तदन्नं तदमृतम् ।
तस्मिन्नेतस्मिन्मण्डले तेजोमयश्छन्दोमयः पुरुषः ।
स प्राणस्स इन्द्र स्स प्रजापतिस्स दीक्षितः ।
स हैवंविद्दीक्षमाणो यथैवैष एतदिन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षित एवमेवेन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षितो भवति ।
तस्मादु हैवंविदि दीक्षित ईश्वरो राष्ट्राणि समुत्कम्पितोः क्षामरन्ध्र इव हि समाभवति ।
एवं ह्येतदिन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षितो भवति ।
तस्मादु सर्वमेवाभिवदत्याचार्यं पितरं क्षत्रियम् ।
एवं ह्येतदिन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षितो भवति ६३