०६२

एष वाव दीक्षितो य एष तपति ।

स एष इन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षितः ।

तस्य येऽर्वाञ्चो रश्मयस्तानि श्मश्रूणि य ऊर्ध्वास्ते केशाः ।

अहोरात्रे एव कृष्णाजिनस्य रूपम् ।

अहरेव शुक्लस्य रूपं रात्रिः कृष्णस्य ।

अथ यदेतन्मण्डलं ता आपस्तदन्नं तदमृतम् ।

तस्मिन्नेतस्मिन्मण्डले तेजोमयश्छन्दोमयपुरुषः ।

स प्राणस्स इन्द्र स्स प्रजापतिस्स दीक्षितः ।

तदेतद्दीक्षयैव सङ्गृहीतम् ।

तत आभ्यः प्रजाभ्योऽन्नाद्यं विसृजते ।

तस्येमा एव दिशः पत्नय आसन् ।

तं हेमास्तिस्रो दिशोऽतिचेरुः ।

इयं हैवास्यानुव्रततमास येयं दक्षिणा दिक् ।

तस्मादेष एतामेवाभ्युपावर्तते ।

यद्यप्युत्तरत उदेत्यथैतामेवाभ्युपावर्तते ।

तस्माद्यास्य प्रिया जाया स्यात्तां दक्षिणार्ध्यां कुर्यात् ६२