०६०

\एकविंशं च वा पञ्च प्राणं चाग्नीञ्चादित्यं च ।

अथ ये द्वे अक्षरे ते बृहद्र थन्तरे ते अहोरात्रे ।

सोऽर्धमासस्स मासस्स ऋतुस्स संवत्सरः ।

तदाहुर्यत्प्राणाश्छन्दांसि छन्दांसि स्तोमा इत्याहुः कथं यजमानः प्राणैश्छन्दांस्यप्येति ।

छन्दोभि स्तोमाण्स्तोमैर्बृहद्र थन्तरे बृहद्र थन्तराभ्यामहोरात्रे अहोरात्राभ्यामर्धमासमर्धमासेन मासं मासेनर्तुमृतुना संवत्सरम् ।

कुतस्संवत्सरो जायते क्व प्रतिष्ठित इति ।

स विद्यादहमेव संवत्सरोऽस्मि मयि प्रतिष्ठित इति ।

एवंविदो ह वाव संवत्सरो जायत एवंविदि प्रतिष्ठितः ।

अथो आहुरादित्य एव संवत्सरः ।

एतं हि सर्वा श्रीस्सर्वं यशस्सर्वे देवास्समेतास्तस्मादादित्य एव संवत्सर इति ।

तस्य यद्भाति तत्संवद्यन्मध्ये कृष्णं मण्डलं तत्सर इत्यधिदेवतम् ।

अथाध्यात्मम् ।

अयमेव संवत्सरो योऽयं चक्षुषि पुरुषः ।

तस्य यच्छुक्लं तत्संवद्यन्मध्ये कृष्णं मण्डलं तत्सरः ।

अथो आहुरादित्य एव संवच्चन्द्र मास्सरः ।

तमेष सरति ।

तं पौर्णमास्यामाप्नोतीति ।

तदु वा आहुः प्राण एव संवद्वाक्सरः ।

एताभ्यां हि समश्नुत इति तस्य वा एतस्य संवत्सरस्याग्निष्टोमसामान्येव देवयानः पन्थाः ६०