०५९

गायत्र्या उष्णिहोऽनुष्टुभश्चतुरशीतिरक्षराणि ।

ते चत्वार एकविंशाः ।

पङ्क्तेश्च त्रिष्टुभश्च चतुरशीतिरक्षरानि ।

ते चत्वार एकविंशाः ।

बृहत्यै च जगत्यै च चतुरशीतिरक्षराणि ।

ते चत्वार एकविंशाः ।

अथ त्रयाणां छन्दसां दशशतमक्षराणि ।

विंशत्यक्षरा द्विपदा ।

त्रिंशदक्षरा विराट् ।

षष्ट्यक्षरातिच्छन्दाः ।

तानि दशशतमक्षराणि सम्पद्यन्ते ।

ततो द्वे आदत्ते ।

अथ द्वादश त्रिवृतस्सम्पद्यन्ते ।

तानिमान्द्वादश त्रिवृतो द्वादशस्यैकविंशेषूपदधाति ।

ते द्वादश सत्रिंशिनो मासास्सम्पद्यन्ते तदेतच्छन्दांसि त्रिवृतं चैव स्तोममभिसम्पद्यन्ते ५९