०५८

त्रयोदशेमाः परिशवस्त्रयोदशेमा अण्डपरिशुस्सप्तविंशती ।

तदेव त्रिणवमहः ।

त्रयस्त्रिंशदिमानि पृष्टिकाण्डानि सह किङ्कालुकाभिः ।

तदेव त्रयस्त्रिंशमहः ।

अयमभिजिदयं विश्वजिच्छुक्लं कृष्णं कनीनिका ।

त इमे त्रय स्वरसामान इमे त्रयोऽयं विषुवान् ।

प्राणापानावेव गोआयुषी ।

इम एव दश प्राणा दशरात्रः ।

मन एव महाव्रतीयमहः ।

उदान एवोदयनीयोऽतिरात्रः ।

त एते दश प्राणा दश स्तोमा दश छन्दांसि ।

इमे ह सप्त मुख्याः प्राणा द्वाववाञ्चौ नाभ्यां दशमः ।

इमे ह पृष्ठ्यस्य षडहस्य स्तोमाः ।

छन्दोमाः पञ्चविंशः ।

चतुर्धा इमान्यु ह सप्त चतुरुत्तराणि छन्दांसि सद्विपदाविराडतिच्छन्दाः ।

प्राण एव गायत्री चक्षुषी उष्णिक्ककुभौ श्रोत्रं जगती वागनुष्टुब्मनो बृहत्यात्मा पङ्क्तिर्बलं त्रिष्टुप् ।

प्रतिष्ठा द्विपदा मांसानि विराट्शरीराण्यतिच्छन्दाः ।

तेषामेषां सप्तानां चतुरुत्तराणां छन्दसां द्वादशैकविंशास्सम्पद्यन्ते ५८