प्राण एव प्रायणीयोऽतिरात्रः ।
प्राणो हीदं सर्वं प्राणयत ।
तद्यत्प्राणयत तस्मात्प्राणः ।
वागेवारम्भणीयमहः ।
वाचा हि सर्वस्संवत्सरस्सर्वे यज्ञक्रतव आरब्धाः ।
तस्मादारम्भणीयेऽहन्सर्वाणि रूपाणि क्रियन्ते ।
सर्वाणि ह रूपाणि वाचि ।
अयमेकोऽभिप्लवोऽयमेकोऽयमेकोऽयमेकः ।
तस्यास्याभिप्लवस्येदं प्रथममहः ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
इदमेव द्वितीयमहः ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
इदमेव वैरूपं तृतीयमहः ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
इदमेव शाक्वरं पञ्चममहः ।
तस्मादनेनोपसङ्गृह्य शक्नोति ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
इदमेव रैवतं षष्ठमहः ।
तस्मादनया प्राश्नाति ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
एवमस्याभिप्लवस्यैवमस्यैवमस्य ।
अयमेवात्मा पृष्ठ्यः ।
इम एव नव प्राणाः ।
त्रिवृत्प्रायणीयमहर्यत्प्राण इदं सर्वं प्राणयत ।
तद्यत्प्राणयत तस्मादप्येतत्प्रायणीयमहः ।
इमा एव ग्रीवाः पञ्चदशमहः ।
ओजो वै वीर्यम् ।
ग्रीवा ओजः ।
वीर्यं पञ्चदशः ।
तस्मात्पशवो ग्रीवाभिर्भारं वहन्ति ।
अष्टाविमे जत्रवोऽष्टाविम ऊर्ध्वो जत्रुस्सप्तदशः ।
तदेव सप्तदशमहः ।
इदमेवोदरमेकविंशमहः ।
सर्वे वै स्तोमा एकविंशमभिसम्पन्नाः ।
सर्वमन्नाद्यमुदरे प्रतिष्ठितम् ५७