स ह तथैव पल्ययमानस्सोमशुष्मं सात्ययज्ञिमाजगाम ।
तं होवाच प्राचीनयोग्य संवत्सराय दीक्षिष्ये ।
भगवोऽनु नश्शाधीति ।
तथेति ।
तं ह वदन्नभिराधयां चकार ।
तं होपेयाय ।
तस्मै यदेमां क्ळ्प्तिं प्रोवाचाभ्यूहमनुजगौ प्रस्तावप्रतिहारान्विदधावथ हैनमनुशशास ।
अयं वाव संवत्सर इति होवाच ।
तस्यायमेव देवयानः पन्था इमे वर्तन्यावियं गतिरिति ।
स यदेतदेवं वेदानार्त एवं संवत्सरस्योदृचं गच्छति ।
पुरुषो वै प्रजापतिः ।
प्रजापतिस्संवत्सरः ।
स यो ह पुरुषो य एवायमन्तरिक्ष आकाश एष एव स पुरुषः ।
तद्यद्दृश्वदन्तरिक्षे न रमते पूर्णत्वैतन्न रमते ।
अथो यदस्मिन्सर्वस्मिनन्तरीक्षते तस्मादन्तरिक्षम् ।
अथो यदिदं सर्वं युते तस्माद्वायुः ।
अथो यदिदं सर्वं वाति तस्माद्वातः ।
तस्यैतस्याकाशस्यात्मा दमुमूढो यदसावादित्यः ।
स एष आदित्ये पुरुषः ।
अथ यत्ततः पर आकाशस्तस्यैष आत्मा समुमूढो यच्चन्द्र माः ।
स एष चन्द्र मसि पुरुषः ।
स न नाना मन्तव्य इति ह स्माह शाट्यायनिः ।
य एवायं चक्षुषि पुरुष एष एवादित्य एष चन्द्र मसीति ।
तमनयैव पुरुषविधयाप्नोति ५६