०५५

हृत्स्वाशया आल्लकेयो दन्तालस्य धौम्यस्यान्तेवास्यास ।

अथ ह दन्तालो धौम्यस्त्रयं वेदमाप्रपदं विदां चकार ।

तस्माद्ध सामवेदमनूच्य व्याजहारसंवत्सराय दीक्षिष्य इति ।

अथ ह स्म ततः पुरो विपृच्छमानाश्चरन्ति संवत्सराय दीक्षिष्यामह इति ।

अथो ह स्म समवसायान्योऽन्यस्य वरणमाक्रोशमाना निभृत्यमनुपृच्छन्त आसते ।

ते ह स्म यावन्तस्सम्पादयन्ति ते ह स्म दीक्षन्ते ।

शश्वद्धैषा तदाशीरेव ।

तत्सत्त्रं भवति यत्तमेव ब्राह्मणं कृत्वोत्तिष्ठन्ति येनाब्राह्मणोक्तेन सह दीक्षन्ते ।

तस्मादब्राह्मणोक्तेन सह दीक्षेत ।

तस्य ह स्मास्य राजन्यबन्धोश्शार्दूलाजिनं मणिं हिरण्यमुपावहितं भवति ।

तद्ध स्म श्रोत्रियायोपप्रहित्याह संवत्सराय दीक्षिष्येऽनु मा शाधीति ।

तस्मै ह स्म राजन्यबन्धवे वक्तव्यं मन्यन्ते ५५