अथ हेतर उवाच ।
ब्रह्मणे ददद्ब्रूयाद्ब्रह्मन्मनस्ते ददानि तदनेन निष्क्रीणानि ब्रह्मन्निदं ददानीति यद्दास्यन्स्यात् ।
स यन्मनो ददाति चन्द्र मा वै मनश्चन्द्र मसमेवास्मै तद्ददाति ।
तद्यावच्चन्द्र मा न क्षीयते तावदस्य तद्दत्तं न क्षीयते ।
होत्रे ददद्ब्रूयाद्धोतर्वाचं ते ददानि तामनेन निष्क्रीणानि होतरिदं ददानीति यद्दास्यन्स्यात् ।
स यद्वाचं ददात्यग्निर्वै वागग्निमेवास्मै तद्ददाति ।
तद्यावदग्निर्न क्षीयते तावदस्य तद्दत्तं न क्षीयते ।
अध्वर्यवे ददद्ब्रूयादध्वर्यो प्राणं ते ददानि तमनेन निष्क्रीणान्यध्वर्यो इदं ददानीति यद्दास्यन्स्यात् ।
स यत्प्राणं ददाति वायुर्वै प्राणो वायुमेवास्मै तद्ददाति ।
तद्यावद्वायुर्न क्षीयते तावदस्य तद्दत्तं न क्षीयते ।
उद्गात्रे ददद्ब्रूयादुद्गातश्चक्षुस्ते ददानि तदनेन निष्क्रीणान्युद्गातरिदं ददानीति यद्दास्यन्स्यात् ।
स यच्चक्षुर्ददात्यादित्यो वै चक्षुरादित्यमेवास्मै तद्ददाति ।
तद्यावदादित्यो न क्षीयते तावदस्य तद्सत्तं न क्षीयते ।
सदस्याय ददद्ब्रूयात्सस्यात्मानं ते ददानि तमनेन निष्क्रीणानि सदस्येदं ददानीति यद्दास्य स्यात् ।
स यदात्मानं ददात्याकाशो वा आत्माकाशमेवास्मै तद्ददाति ।
तद्यावदाकाशो न क्षीयते तावदस्य तद्दत्तं न क्षीयते ।
होत्रकेभ्यो ददद्ब्रूयाद्धोत्रका श्रोत्रं वो ददानि तदनेन निष्क्रीणानि होत्रका इदं ददानीति यद्दास्यन्स्यात् ।
स यच्छ्रोत्रं ददाति दिशो वै श्रोत्रं दिश एवैभ्यस्तद्ददाति ।
तद्यावद्दिशो न क्षीयन्ते तावदस्य तद्दत्तं न क्षीयते ।
प्रसर्पकेभ्यो ददद्ब्रूयात्प्रसर्पका लोमानि वो ददानि तान्यनेन निष्क्रीणानि प्रसर्पका इदं ददानीति यद्दास्यन्स्यात् ।
स यल्लोमानि ददात्योषधिवनस्पतयो वै लोमान्योषधिवनस्पतीनेवैभ्यस्तद्ददाति ।
तद्यावदोषधिवनस्पतयो न क्षीयन्ते तावदस्य तद्दत्तं न क्षीयते ।
सैषेष्टापूर्तस्याक्षितिः ।
स य एवमेतामिष्टापूर्तस्याक्षितिं वेद न हास्येष्टापूर्तं क्षीयते ।
तदु वा आहुर्वाग्वाव दीक्षितो वाग्दीक्षा वागिदं सर्वं क्षियति ।
वाचि वावेदं सर्वं क्षितमिति वाव तौ तत्सम्प्रोचाते ।
तदु होवाअ शाट्यायनी रथन्तरेण दीक्षे वामदेव्येन दीक्षे बृहता दीक्ष इत्येव दीक्षेत ।
अथ विमुञ्चेत बृहता विमुञ्चे वामदेव्येन विमुञ्चे रथन्तरेण विमुञ्च इति ।
सैषा दीक्षायै युक्तिश्च विमुक्तिश्च ।
स य एवमेतां दीक्षायै युक्तिं च विमुक्तिं च वेद वसीयानेव भवति ५४