केशी ह दार्भ्यो दर्भपर्णयोर्दिदीक्षे ।
अथ ह सुत्वा याज्ञसेनो हंसो हिरण्मयो भूत्वा यूप उपविवेश ।
तं ह केशी३निति नाम्नाभ्युवाद ।
स ह चुक्रोध स्थविरोऽस्मि पञ्चालानां राजा ।
स उ वै दीक्षितोऽस्मि ।
को नु मा३ं हेयन्नाम्नैवाभिवदितुमर्हतीति ।
स होवाच मा क्रुधः ।
अभिवदिता ते तेनास्मि यदहमेतस्यै विशस्त्वत्पूर्वो राजासम् ।
अभिवदितो वाव ते तेनास्मि यददीक्षितोऽसि ।
इष्टापूर्तस्य त्वमक्षितिं वेत्थ ।
दीक्षामहं वेद ।
सम्प्रब्रवावहा इति ।
स होवाच अग्निर्दीक्षितः पृथिवी दीक्षा वायुर्दीक्षितोऽन्तरिक्षं दीक्षा आदित्यो दीक्षितो द्यौर्दीक्षा प्रजापतिर्दीक्षितो मनो दीक्षा ।
स दीक्षेत यया दीक्षयाग्निर्दीक्षितस्तया दीक्षया दीक्षे यया दीक्षया वायुर्दीक्षितस्तया दीक्षया दीक्षे यया दीक्षयादित्यो दीक्षितस्तया दीक्षया दीक्षे यया दीक्षया प्रजापतिर्दीक्षितस्तया दीक्षया दीक्ष इति ५३