०५२

त एते षडृतवष्षड्दिशः ।

त एत ऋतवो दिग्भिर्मिथुना वसन्तेनेयं प्राची दिङ्मिथुना ग्रीष्मेणेयं वर्षाभिरियं शरदेयं हेमन्तेनासौ शिशिरेणेयम् ।

तद्यथा पतिं जाया अनिमेषमीक्षेरन्नेवमेवैना एवंविदं दीक्षमाणमीक्षन्ते ।

तद्यद्दिग्भिरीक्षितस्तस्माद्दीक्षितः ।

स दीक्षिष्यमाण आदित्यमुपतिष्ठेत त्वं देवता दीक्षितासि ।

सा दीक्षमाणस्य तेज इन्द्रि यं वीर्यं यश आदत्से ।

मा मे तेज इन्द्रि यं वीर्यं यश आदिथाः ।

तव दीक्षामनु दीक्ष इति ।

अथर्तूनन्वारोहति ।

य ऋतव ऋतुभ्योऽध्यासन्

पुरा सूर्याच्चन्द्र मसश्च पूर्वे

येभिः प्रजानन्प्रदिशो दिशश्च

तानन्वारोहामि तपसा ब्रह्मणा च

इति प्राणर्तूनन्वारोहति ।

य ऋतवश्चन्द्र मसोऽधि पूर्व

ऋचं वाचं ब्रह्माणमाबभूवुः

इत्येवंविदं ह्याभवन् ।

येभिः प्रजानन्प्रदिशो दिशश्च

तानन्वारोहामि तपसा ब्रह्मणा च

इति देवर्तूनन्वारोहति ।

य एक ऋतुस्त्रय ऋतवश्च

ये षट्चतुर्विंशतिरृतवो ये

द्वादश सप्तदशान्युत विंशतिश्च

तानन्वारोहामि तपसा ब्रह्मणा च

इतीमानृतूनन्वारोहति ।

स एवमेतैस्तैरृतुभिः परिगृहीतः ।

स यथा तैरृतुभिः परिगृहीत एवमेवानार्तस्संवत्सरस्योदृचं गच्छति ।

ऋतुरृतुर्हैवंविदे कल्पते ५२