०५०

\यदा वै तूष्णीमास्ते प्राणमेव वागप्येति ।

यदा स्वपिति प्राणमेव चक्षुरप्येति ।

तद्यदेवंविद्वदति हविर्यज्ञैरस्य तदिष्टं भवति ।

यत्प्राणित्यग्निष्टोमेनास्य तदिष्टं भवति ।

यद्वीक्षत उत्तरैरस्य तद्यज्ञक्रतुभिरिष्टं भवति ।

तद्यदेवंविद्वदति यत्प्राणिति यद्वीक्षत एतैर्हास्य तत्सर्वैर्यज्ञक्रतुभिरिष्टं भवति ।

स एष समानप्रायणस्समानसम्बन्धनस्संवत्सरः ।

तस्य मन एव प्रायणं वाक्सम्बन्धनम् ।

स एष संवत्सरोऽग्निष्टोमानेवाभिसम्पद्यते ।

षडतिरात्रस्यातियन्ति त्रीण्युक्थानि त्रिदेवत्यस्सन्धिः ।

त्रीण्यारम्भणीयस्याह्नोऽतियन्ति ।

अथ यत्र ह क्व चाभिप्लवस्सप्त तेऽग्निष्टोमाः ।

षट्कृत्वः पृष्ठ्यमुपयन्ति ।

द्वयोष्षडतियन्ति द्वयोष्षट् ।

सोऽग्निष्टोमः ।

द्वयोष्षट् ।

तदमूनि षडुपदधाति ।

सोऽग्निष्टोमः ।

अग्निष्टोमोऽभिजित् ।

नव स्वरसाम्नामतियन्ति ।

तदमूनि त्रीण्युपदधाति ।

सोऽग्निष्टोमः ।

अग्निष्टोमो विषुवान् ।

प्रतीचां स्वरसाम्नां नवातियन्ति ।

पञ्चकृत्वः पृष्ठ्यमुपयन्ति ।

द्वयोष्षडतियन्ति द्वयोष्षट् ।

सोऽग्निष्टोमः ।

एकस्य त्रीणि ।

तान्येषु नवसूपदधाति ।

सोऽग्निष्टोमः ।

अग्निष्टोमो विश्वजित् ।

गोआयुषोष्षडतियन्ति ।

द्वादशाग्निष्टोमा दशरात्रः ।

अग्निष्टोमो महाव्रतीयमहः ।

षडतिरात्रस्यातियन्ति ।

तदमूनि षडुपदधाति ।

सोऽग्निष्टोमः ।

द्वादशकृत्वष्षोडशिनमुपयन्ति ।

सोऽग्निष्टोमः ।

यद्यु वा अतिरात्रे षोडशिनमुपयन्ति मोहयन्त्यमूं विराजस्सम्पदम् । ईमामग्निष्टोमसम्पदं रिच्यते ।

स ह सोऽनिधानो वज्रो हिनस्ति ।

अथ वा अनिधानो वज्रः ।

स एष समानप्रायणस्समानसम्बन्धनस्संवत्सरः ।

तस्य मन एव प्रायणं वाक्सम्बन्धनम् ।

स एष संवत्सरोऽग्निष्टोमानेवाभिसम्पद्यते ।

सम्पदा हाग्निष्टोमायनं भवति ।

उपाप्तान्यु तान्यहानि भवन्ति यानि संवत्सरे चित्रियाणि ।

तेन हैतेनायनेनोभौ कामावुपाप्नोति यश्चाग्निष्टोमायने यश्च मासि पृष्ठे ५०