एष वाव यज्ञानां विषुवान्यदग्निष्टोमः ।
ते ये प्राञ्चो हविर्यज्ञा औपवसथात्तेऽपियन्ति ।
अथ य उत्तरे यज्ञक्रतवस्सुत्यायां तेऽपियन्ति ।
यत्त्रिवृद्बहिष्पवमानं ये त्रिवृत स्तोमास्तेन तेऽपियन्ति ।
यत्पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनो ये पञ्चदशा स्तोमास्तेन तेऽपियन्ति ।
यत्सप्तदशानि पृष्ठानि सप्तदश आर्भवो ये सप्तदशा स्तोमास्तेन तेऽपियन्ति ।
यदेकविंशमग्निष्टोमसाम य एकविंशा स्तोमास्तेन तेऽपियन्ति ।
यदेकविंशं सर्वे स्तोमा अभिसम्पद्यन्ते तेन सर्वे स्तोमा अपियन्ति ।
अयमेवाग्निष्टोमो योऽयं पवते ।
ते ये प्राञ्चो यज्ञक्रतवोऽग्निस्ते निदानेन ।
अथ य उत्तरे यज्ञक्रतव आदित्यस्ते निदानेन ।
यदा वा अग्निरुद्वायति वायुमेवाप्येति ।
यदा आदित्योऽस्तमेति वायुमेवाप्येति ।
तस्य वा एतस्य तथैव वाग्निष्टोमस्य चतुर्विंशति स्तुतशस्त्राणि ।
एवं चतुर्विंशतिः पुरोवातो दक्षिणतोवातः पश्चात्वात उत्तरतोवात ऊर्ध्वतोवात इति ।
प्राण एवाग्निष्टोमस्तोमः ।
ते ये प्राञ्चो यज्ञक्रतवो वाक्ते निदानेन अथ य उत्तरे यज्ञक्रतवश्चक्षुस्ते निदानेन ४९