०४८

तदाहुर्यद्बृहत्यायतनानि पृष्ठानि कथमतो बृहतीषु कृतं भवतीति ।

एतस्यात्मनो द्वापञ्चाशं शतं बृहतयो भवन्त्येका च ककुप् ।

तेन बृहतीषु कृतं भवति ।

तेनो एव ककुप्पृष्ठेभ्यो न च्यवत इति ।

तदाहुः किञ्छन्दाः पञ्चविंश स्तोम इति ।

पङ्क्तिछन्दा इति ब्रूयात् ।

एतद्ध वै प्रत्यक्षं पञ्चविंशस्य स्तोमस्य छन्दो यत्पङ्क्तिः ।

एतस्यात्मनस्सप्तत्रिंशं शतं पङ्क्तयो भवन्त्यर्धपङ्क्तिश्च ।

तेन पङ्क्तिश्छन्दाः ।

ता उ एव द्वानवतिरतिछन्दसः ।

अतिछन्दा वै सर्वाणि छन्दांस्यभिभवति ।

तद्वा अस्य तत्सर्वाण्येव छन्दांस्युपेतानि भवन्ति ।

तदाहुः कथमेतत्सर्वमहः पञ्चविंशं भवतीति ।

सम्पदेति ब्रूयात् ।

कथं सम्पदेति ।

पद्येति नव शीर्ष्णो गायत्र्यः ।

तासां सप्तविंशतिः पदानि ।

षट्छतं पक्षयोर्द्वाचत्वारिंशत्पुच्छस्य ।

तद्यानीमानि सप्तविंशतिश्शीर्ष्णः पदानि ततो द्वे आदाय षट्छत उपदधति ।

अथ पञ्चविंशः परिशिष्यते ।

ततो यच्छतं चत्वारस्ते पञ्चविंशाः ।

अथ यान्यष्टावतिरिच्यन्ते तानि द्वाचत्वारिंशत्युपदधति ।

तौ द्वौ पञ्चविंशौ ।

पञ्चविंश एव पञ्चविंशम् ।

सर्वं पञ्चविंशं भवतीति ४८