तदाहुर्यद्विहृतमेतदहश्शस्यते विहृतासु स्तुध्वा३अविहृतासू३इति । विहृतास्विति ब्रूयात् ।
य एता राजन्यस्य देवतास्ताभिर्विहृतं भवति ।
तद्यद्गायत्रीषु शिरो भवति बृहतीषु च ककुप्सु च पक्षौ द्विपदासु च पुच्छं त्रिष्टुप्स्वात्मा कथमतो विहृतं भवतीति ।
एतस्यात्मनः पञ्चविंशं शतं त्रिष्टुभो भवन्ति ।
ततो यच्छतमायुष्टत् ।
अथ याः पञ्चविंशतिः पुरुषस्सः ।
पञ्चेमाः पञ्चेमाः पञ्चेमाः पञ्चेमाश्चत्वारि प्राङ्गानि ।
आत्मा पञ्चविंशः ।
स एष शतायुः पुरुषः ।
तदाहुर्यदन्यास्त्रिष्टुभस्सम्पूर्णाक्षरासु स्तुवत इति ।
स ब्रूयात्त्रैष्टुभो वै पुरुषस्त्रिष्टुब्योनिः ।
तानीमानि पुरुषस्यान्यूनानि ।
तस्माद्व्यूनाक्षराः ।
अथ यद्विषमेण समस्तेनो सम्पूर्णाक्षरा इति ।
तदाहुर्यत्पञ्चविंशः पुरुषः पुरुषस्यैतत्स्तोत्रमित्याहुः ।
अथ कस्मादेतानि विषमाणि सामानि क्रियन्ते पुरुषस्य सर्वताया इति ।
स ब्रूयान्मनो वै प्रजापतिः ।
प्रजापतिः पुरुषः ।
तस्यैषो अन्तरात्मा यदेताः पञ्चविंशति स्तोत्र्याः ।
अथो यथा पुरुषस्य केशा नखा लोमानि श्मश्रूणि तादृक्तत् ।
यदेतानि विषमाणि सामानि क्रियन्ते पुरुषस्य सर्वताया इति ४७