अथैता अन्याः परिमादः कुरुते ।
अथ स्तुते ।
अथ शीर्ष्णाग्रे स्तुतेऽथ दक्षिणेन पक्षेनाथोत्तरेणाथ पुच्छेनात्मनोत्तमेन ।
तत्सलोमाय ।
शीर्ष्णोद्गाता प्रतिपद्यत आत्मना होता ।
यां ह्येव प्राह तया प्रतिपद्यते ।
अथ यदन्यां प्राहान्यया प्रतिपद्यते विलोम तत् ।
अथ हैक आत्मनैवाग्रे प्रतिपद्यन्ते ।
तदु होवाच शाट्यायनिर्यथान्धो द्वारमृच्छेत्तादृक्तदिति ।
अथ हैके स्तुत्वाइवोपावरुह्यैतदहश्शस्यमानमीक्षमाणा आसते ।
तदु होवाच शाट्यायनिरीश्वरः पापीयान्भवितोर्यस्तथा करोति ।
क्षत्रं वै साम ।
विट्छस्त्रम् ।
उपर्येवासीत ।
राजानमेवाह्रियमाणं प्रत्यवरोहेत् ।
तथास्य राजा प्रत्यवरूढो भवति ।
तस्यै प्रत्यवरोहो
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्
पिपृतां नो भरीमभिः
इति ।
तामेतामासन्दीमुत्तरतः पर्याहृत्य निदधति ४६