०४४

एतद्वा अयनमिति होवाच ।

तद्यद्वा इदमाहुरनयनेनागादिति ।

य एवैतदविद्वांसस्संवत्सराय दीक्षन्ते तेऽनयनेन यन्ति ।

अथ य एतदेवं वेदानार्त एव संवत्सरस्योदृचं गच्छत्युत्थायो योगक्षेमी पणाय्यो भवति ।

त एतं स्वर्गं लोकमागच्छन्ति ।

एतन्महाव्रतीयमहः ।

एष वाव स्वर्गलोको यन्महाव्रतीयमहः ।

तत्पञ्चविंशं भवति ।

ततो या विंशतिर्विराट्सा ।

अथ याश्चतस्र इमा एव ताश्चतस्रो दिशः ।

अथ या पञ्चविंशीयमेव सोर्ध्वा दिक् ।

दिशो वै यत्र समुदश्रयन्त तदेषोऽत्यग्रो नाम लोकोऽभवद्य एष तपति ।

एतमेवैतत्पञ्चविंश्याभ्यारोहन्ति ।

एतस्य सलोकतां गच्छन्ति ।

तदाहुर्यदेतेनाह्ना भूयिष्ठमीप्सन्ति यन्महाव्रतीयेनाथ कस्मादयं वारणः पञ्चविंशस्तोमः क्रियत इति ।

कृत्स्नस्यान्नाद्यस्यावरुद्ध्या इति ब्रूयात् ।

पुरुषमेव पञ्चभि स्तोत्रियाभिरवरुन्द्धे गां पञ्चभिरश्वं पञ्चभिरजां पञ्चभिरविं पञ्चभिः ।

स एष कृत्स्नसैवान्नाद्यस्यावरुद्ध्या अन्ततः पञ्चविंशस्तोमः क्रियत इति ।

अथ यावतिरात्रौ प्रतिष्ठैव सा ।

अस्मिन्नेव लोके प्रायणीयेनातिरात्रेण प्रतिष्ठाय प्रयन्ति ।

अमुष्मिल्ँ लोक उदयनीयेनातिरात्रेण प्रतिष्ठायोद्यन्ति ।

ते हाप्यबुभूषन्त इव भवन्ति प्रत्यिव तिष्ठन्ति ४४