गोबलं ह वार्ष्णं शाट्यायनिरुवाच पितृमानसि भगवः पितामहवान् ।
संवत्सराय दीक्षिष्येऽनु मा शाधीति ।
तथेति होवाच ।
अयनं ते वक्ष्यामि यद्विद्वाननार्तस्संवत्सरस्योदृचं गच्छत्युत्थायो योगक्षेमी पणाय्यो भवतीति ।
तान्वा एतान्द्वादश मासो यन्तीति होवाच ।
ततो यांश्चतुरो मासो यन्त्यग्नेरेव तानयनेन यन्ति ।
अग्निं चैव तेन देवतानामुपाप्नुवन्तीमं च लोकं इति ।
अथ यानपरांश्चतुरो मासो यन्ति वायोरेव तानयनेन यन्ति ।
वायुं चैव तेन देवतानामुपाप्नुवन्त्यन्तरिक्षलोकं चेति ।
यानपरांश्चतुरो मासो यन्त्यादित्यस्यैव तानयनेन यन्ति ।
आदित्यं चैव तेन देवतानामुपाप्नुवन्त्यमुं च लोकमिति ४३