०४२

तद्ध क्रतुजिज्जानकिरियपिं सौमापं पप्रच्छ प्राणेन स्वी३दपानेना३अस्मिञ्जीवति मर्त्यः ।

तद्ब्रूतात्सङ्गतेभ्यः कुरूणां ब्राह्मणेभ्य इति ।

स होवाचेहैवाहं त्वां प्रतिवक्ष्यामीति ।

तं ह प्रत्युवाच न प्राणेन नापानेन ।

अस्मिञ्जीवति मर्त्ये व्यानोऽध्यक्षः पशोस्स तं विष्वञ्चं ईर्यत इति ।

पुरुषो वै पशुः ।

पशुरुत्पशुस्सः ।

व्यानो ह वा एतं विष्वञ्चमीर्यते ।

तान्वा एतानेके परस्ताद्विषुवत ऊर्ध्वानेव षडहानुपयन्ति ।

यं वावैतं पृष्ठ्यं पूर्वमुपैमस्तेन व्यावृत्ता भवन्ति ।

अथो एवमजामीति ।

तदु होवाच शाट्यायनिरुभये वा एत ऊर्ध्वा भवन्ति ये चोर्ध्वा ये चार्वाञ्चः ।

सवनैर्वा एत ऊर्ध्वा भवन्त्याप्नुम उ तं कामं य आवर्तेष्विति ।

तदाहुर्यद्यथापां विवर्त एवमेते यद्गोआयुषी ।

कतरेषामेते अह्नाम् ।

परेषामवरेषामिति ।

उभयेषामेवेति ब्रूयात् ।

उभयानि ह वा एते अहानि सङ्गृह्य तिष्ठतः पराणि चावराणि च ।

तस्मात्त्र्यहेणान्यत्तनुमहे त्र्यहेणान्यत् ।

स द्व्यहस्सन्षडहो भवति ।

तदूर्ध्वे गोआयुषी भवत ऊर्ध्वो दशरात्रः ।

तद्धैतदेके विहृते गोआयुषी उपयन्त्युपरिष्टाद्विश्वजित आयुः पुरस्ताद्दशरात्रस्य गाम् ।

एवमजामीति ।

अथो एवमेवैतयोः पुरोपाययनम् ।

तत्प्रमत्ता नैमिशीया अतीयुः ।

तेऽत्र पुरस्ताद्दशरात्रस्य सहोपेयुः ।

तत इदमर्वाचीनमेवोपयन्ति ।

तदु होवाच शाट्यायनिः प्राणापानावेतौ यद्गोआयुषी ।

अन्नपाने ते विच्छिन्दन्ति ये विहरन्ति ।

अथो एष वाव देवयानः पन्था यद्गोआयुषी ।

स्वर्ग एष लोको यद्दशरात्रः ।

त एतेन देवयानेन पथैतं स्वर्गं लोकं गच्छन्ति ।

अथ य एते विहरन्त्येतं देवयानं पन्थानं विच्छिन्दन्ति ते न किं चन व्यश्नुवते ।

तस्मात्सहैवोपेत्ये इति ४२